07 मार्च 2010

जैन धर्म दर्शन - अद्याष्टकस्तोत्रम्

अद्याष्टकस्तोत्रम्

अद्य मे सफलं जन्म नेत्रे च सफले मम
त्वामद्राक्षं यतो देव हेतुमक्षयसंपदः 1

अद्य संसार-गंभीर-पारावारः सुदुस्तरः
सुतरोऽयं क्षणेनैव जिनेन्द्र तव दर्शनात्2

अद्य मे क्षालितं गात्रं नेत्रे च विमले कृते
स्नातोऽहं धर्म-तीर्थेषु जिनेन्द्र तव दर्शनात्3

अद्य मे सफलं जन्म प्रशस्तं सर्वमंगलम्
संसारार्णव-तीर्णोऽहं जिनेन्द्र तव दर्शनात्4

अद्य कर्माष्टक-ज्वालं विधूतं सकषायकम्
दुर्गतेर्विनिवृत्तोऽहं जिनेन्द्र तव दर्शनात्5

अद्य सौम्या ग्रहाः सर्वे शुभाश्र्चैकादश-स्थिताः
नष्टानि विन्घ-जालानि जिनेन्द्र तव दर्शनात्6

अद्य नष्टो महाबन्धः कर्मणां दुःखदायकः
सुख-संग समापन्नो जिनेन्द्र तव दर्शनात्7

अद्य कर्माष्टकं नष्टं दुःखोत्पादन-कारकम्
सुखाम्भोधि-निमग्नोऽहं जिनेन्द्र तव दर्शनात्8